top of page

श्रेयस्करीस्तोत्रम् (कृष्णानन्दसरस्वतीविरचितं) | shreyaskari stotram

श्रेयस्करीस्तोत्रम् 
श्रीः ।
श्रेयस्करि श्रमनिवारिणि सिद्धविद्ये
    स्वानन्दपूर्णहृदये करुणातनो मे ।
चित्ते वस प्रियतमेन शिवेन सार्धं
    माङ्गल्यमातनु सदैव मुदैव मातः ॥ १॥

श्रेयस्करि श्रितजनोद्धरणैकदक्षे
    दाक्षायणि क्षपितपातकतूलराशे ।
शर्मण्यपादयुगले जलजप्रमोदे
    मित्रे त्रयीप्रसृमरे रमतां मनो मे ॥ २॥

श्रेयस्करि प्रणतपामरपारदान-
    ज्ञानप्रदानसरणिश्रितपादपीठे ।
श्रेयांसि सन्ति निखिलानि सुमङ्गलानि
    तत्रैव मे वसतु मानसराजहंसः ॥ ३॥

श्रेयस्करीति तव नाम गृणाति भक्त्या
  …
bottom of page